Ad Code

Responsive Advertisement

शनि कवच-Shani Kavach


शनि कवच/Shani Kavach


    शनि की साढ़े साती/ढैय्या लगने पर जाप करें

    श्री ब्रह्मोवाच

    श्रृणुध्वमृषयः सर्वे शनि पीडाहरं महत्। कवचं शनिराजस्य सौरेरिदमनुत्तमम्।।

    कवचं देवतावासं वज्रपंजर संज्ञकम्।

    शनैश्चर प्रीतिकरं सर्वसौभाग्य दायकम्।।

     

    विनियोग

    ॐ अस्य श्री शनैचर वज्रपंजर कवचस्य कश्यप ऋषिः अनुष्टुप्

    छन्दः श्री शनिश्चर देवता, श्री शनैश्चर प्रीत्यर्थे पाठे विनियोगः।

     
    ऋष्यादिन्यास

    कश्यप ऋषिये नमः शिरसि अनुष्टुप् छन्दसे नमः मुखे।

    श्री शनैश्चरः दैवतायै नमः हृदि।

    श्री शनैश्चर प्रीत्यर्थे पाठे विनियोगाय नमः सर्वांगे।

     

    ध्यानम्

    नीलाम्बरो नीलवपुः कीरीटी गृघ्रस्थितः त्रासकः धनुष्करो.

    चतुर्भुजः सूर्यसुतः प्रसन्नः सदा ममस्यात् बरदः प्रशान्त।

     

    श्री ब्रह्मोवाच

    श्रृणुध्वमॠषय सर्वेशनिपीडाहरं महत्, कवचं शनि राजस्य सौरेरिद मनुत्तमम्।।1।।

    कवचं देवतावासं वज्रपंजर अंशकम्, शैनश्चर प्रीतिकरं सर्वसौभाग्यदायकम्।।2।।

    शिरः शनैश्चरः पातु भालं में सूर्य नन्दनः, नेत्रे छायात्मजः पातु पातु कर्णो यमानुजः।।3।।

    नासा वैवस्वतः पातु मुखं मे भास्करः सदा, स्निग्ध कण्ठश्च मे कण्ठं भुजौ पातु महाभुजः॥4॥

    स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रदः, वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ।।5।।

    नाभिग्रहपतिः पातु मन्दः पातु कटिं तथा। ऊरू ममान्तकः पातु यमो जानु युगं तथा ।।6।।

    पादौ मन्द गतिः पातु सर्वांग पातु पिप्पलः । अंगोपांगनि सर्वानि रक्षेत् में सूर्यनन्दनः ।।7।।

     
    फलश्रुति

    इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य यः । न तस्य जायते पीडा प्रीतो भवति सूर्यजः।।1।।

    व्यय जन्म द्वितियस्थो मृत्युस्थान गतोऽपि वा । कालस्थ गतो वाऽपि सुप्रीतस्तु सदा शनिः ।।2।।

     

    अष्टमस्थे सूर्यसुते व्यये जन्म द्वितीयगे। कवचं पठतो नित्यं न पीडा जायते कवचित् ।।3।।

    इत्येतत् कवचं दिव्यं सौरेर्यन्निर्मितं पुरा। द्वादशाष्टम जन्मस्थ दोषान्नाशयते सदा।

    जन्मलग्नस्थितान् दोषान् सर्वान् नाशयते प्रभु ।।4।।

    ।। इति श्री शनिवज्रपंजर कवचं सम्पूर्णम् ।।

     

    शनि पीड़ा निवारण स्तुति

    ध्वाजिनी धामिनी चैव कंकाली कलह प्रिया। अजा महिषं मांतगी शने मार्या प्रकीर्तिता।।

    एता सांशनिर्मायाणां प्रातरूथाय यः पठेत । शनैश्चर कृता पीड़ा विनश्यति न संशयः।।

     

    ऋणमोचनमङ्गलस्तोत्रम्-

    ऋण मुक्ति चाहने हेतु प्रतिदिन ग्यारह बार जप करें।

    ॐ मङ्लगो भूमिपुत्रश्च ऋणहर्ता धनप्रदः । स्थिरासनो महाकायः सर्वकर्मावरोधकः।।1।।

    लोहितो लोहिताक्षश्च सामगानां कृपाकरः।धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः।।2।।

    अङ्गारको यमश्चैव सर्वरोगापहारकः । वृष्टः कर्ताऽपहर्ता च सर्वकामफलप्रदः।।3।।

    एतानि कुजनामानि नित्यं यः श्रद्धया पठेत् । ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात्।।4।।

    धरणीगर्भसम्भूतं विद्युत्कान्ति समप्रभम् ।कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्।।5।।

    स्तोत्रमङ्गारकस्यैतत् पठनीयं सदा नृभिः । न तेषां भौमजापीडा स्वल्पाऽपि भवतिक्वचित्।।6।।

    अङ्गारक महाभाग भगवन् भक्तवत्सल । त्वां नमामि ममाशेषमृणमाशु विनाशय।।7।।

    ऋणरोगादिदारिद्र्यं ये चाऽन्ये ह्यपमृत्यवः । भयक्लेशमनस्तापा नश्यन्तुमम सर्वदा ।। 8।।

    ।। इति ऋणमोचनमङ्गलस्तोत्रम् ।।



    विनम्र आग्रह - अगर आप मेरे द्वारा साझा की गयी जानकारी से संतुष्ट है तो ब्लॉग पोस्ट पर कमेंट जरूर लिखें  धन्यवाद !😊

    Post a Comment

    0 Comments